|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.10. अध्यायः 010
Mahabharata - Vana Parva - Chapter Topics
धृतराष्ट्रेण दुर्योधनानुशासनं प्रार्थितेन व्यासेन तत्रागमिष्यन्तं मैत्रेयप्रति तत्प्रार्थनाविधानपूर्वकं स्वावासंप्रति गमनम् ॥ 1 ॥ तत्रागतेन मैत्रेयेण ऊर्वास्फालनपूर्वकं स्ववचनमनादृतवतो दुर्योधनस्य भीमसेनगदया तवोरुभेदो भूयादिति शापदानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
धृतराष्ट्र उवाच। 3-10-0x(1798)(15985)
एवमेतन्महाप्राज्ञ यथा वदसि मां मुने।
अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥ 3-10-1(15986)
भवांश्च मन्यते साधु यत्कुरूणां सुखोदयम्।
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥ 3-10-2(15987)
यदित्वहमनुग्राह्यः कौरव्येषु दया यदि।
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥ 3-10-3(15988)
व्यास उवाच. 3-10-4x(1799)
अयमायाति वै राजन्मैत्रेयो भगवानृषिः।
अन्वीक्ष्य पाण्डवान्भ्रातृनिहैवाऽस्मद्दिदृक्षया ॥ 3-10-4(15989)
एष दुर्योधनं पुत्रं तव राजन्महानृषिः।
अनुशास्ता यथान्यायं शमायास्य कुलस्य च ॥ 3-10-5(15990)
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया।
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा ॥ 3-10-6(15991)
वैशम्पायन उवाच। 3-10-7x(1800)
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत।
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥ 3-10-7(15992)
कृत्वाऽर्ध्याद्याः क्रियाः सर्वा विश्रान्तं मुनिसत्तमम्
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 3-10-8(15993)
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले।
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः । 3-10-9(15994)
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः।
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥ 3-10-10(15995)
मैत्रेय उवाच। 3-10-11x(1801)
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्।
यदृच्छया धर्मराजं दृष्ट्ववान्काम्यके वने ॥ 3-10-11(15996)
तं जटाजिनसंवीतं तपोवननिवासिनम्।
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥ 3-10-12(15997)
तत्राश्रौषं महाराज पुत्राणां तव विग्रहम्।
अनयं द्यूतरूपेण महाभयमुपस्थितम् ॥ 3-10-13(15998)
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ॥
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥ 3-10-14(15999)
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति।
यदन्योन्येन ते पुत्रा विरुध्यन्ते कथंचन ॥ 3-10-15(16000)
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्।
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥ 3-10-16(16001)
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन।
तेन न भ्राजसे राजंस्तापसानां समागमे ॥ 3-10-17(16002)
वैशम्पायन उवाच। 3-10-18x(1802)
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्।
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृपिः ॥ 3-10-18(16003)
मैत्रेय उवाच। 3-10-19x(1803)
दुर्योधन महाबाहो निबोध वदतां वर।
वचनं मे महाभाग ब्रुवतो यद्धितं तव ॥ 3-10-19(16004)
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः।
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥ 3-10-20(16005)
पाण्डवान्प्राप्य तान्रात्रौ किर्मीरो नाम राक्षसः।
अवृत्य मार्गं रौद्रात्मा तस्थौ गिरिवाचलः ॥ 3-10-21(16006)
तं भीमः समरस्लाघी बलेन बलिनां वरः।
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥ 3-10-22(16007)
पश्य दिग्विजये राजन्यथा भीमेन पातितः।
जरासन्धो महेष्वासो नागायुतबलो युधि ॥ 3-10-23(16008)
संबन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः।
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ॥ 3-10-24(16009)
सर्वे नागायुतप्राणा वज्रसंहनना दृढः।
सत्यव्रतधराः सर्वेसर्वे पुरुषमानिनः ॥ 3-10-25(16010)
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्।
हिडिम्बबकमुख्यानां किर्मीरस् च रक्षसः।
कस्तान्युधि समासीत जरामरणवान्नरः ॥ 3-10-26(16011)
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ।
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥ 3-10-27(16012)
वैशम्पायन उवाच। 3-10-28x(1804)
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशांपते।
ऊरुं करिकराकारं करेणाभिजघान तः ॥ 3-10-28(16013)
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्।
नकिंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः ॥ 3-10-29(16014)
तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्।
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥ 3-10-30(16015)
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः।
विधिना संप्रयुक्तश्च शापायास्य मनो दधे ॥ 3-10-31(16016)
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः।
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥ 3-10-32(16017)
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि।
तस्मादस्यातिमानस्य सद्यः फलमवाप्स्यसि ॥ 3-10-33(16018)
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्।
यत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली ॥ 3-10-34(16019)
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः।
प्रसादयामास मुनिं नैतदेवं भवेदिति ॥ 3-10-35(16020)
मैत्रेय उवाच। 3-10-36x(1805)
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा।
शायो न भविता तात विपरीते भविष्यति ॥ 3-10-36(16021)
वैशम्पायन उवाच। 3-10-37x(1806)
सविलक्षस्तु राजेन्द्रो दुर्योधनपिता तदा।
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥ 3-10-37(16022)
मैत्रेय उवाच। 3-10-38x(1807)
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः।
एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥ 3-10-38(16023)
वैशम्पायन उवाच। 3-10-39x(1808)
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्।
किर्मीरवधसंविग्नो भयं दुर्योधनो ययौ ॥ 3-10-39(16024)
॥ इतिश्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि दशमोऽध्यायः ॥ 10 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-10-5 अनुशास्ता अनुशासिष्यति ॥ 3-10-6 अक्रियायां अकरणे। कार्यस्य अवश्यकर्तव्यस्य ॥ 3-10-11 यदृच्छया दैवात् ॥ 3-10-15 औपयिकं योग्यम् ॥ 3-10-16 मेढीभूतः खलदामस्तम्भीभूतः। प्रग्रहे अनुग्रहे ॥ 3-10-18 व्यावृत् अभिमुखीभूयेत्यर्थः ॥ 3-10-22 पशुमारेण पशुमारणप्रकारेण ॥ 3-10-24 विक्रान्तयोधिनः विक्रान्ताश्च युद्धशीलाश्च ॥ 3-10-25 वज्रसंहननाः वज्रकायाः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|