(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.10. अध्यायः 010
Mahabharata - Vana Parva - Chapter Topics
धृतराष्ट्रेण दुर्योधनानुशासनं प्रार्थितेन व्यासेन तत्रागमिष्यन्तं मैत्रेयप्रति तत्प्रार्थनाविधानपूर्वकं स्वावासंप्रति गमनम् ॥ 1 ॥ तत्रागतेन मैत्रेयेण ऊर्वास्फालनपूर्वकं स्ववचनमनादृतवतो दुर्योधनस्य भीमसेनगदया तवोरुभेदो भूयादिति शापदानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

धृतराष्ट्र उवाच। 3-10-0x(1798)(15985)
एवमेतन्महाप्राज्ञ यथा वदसि मां मुने।
अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥ 3-10-1(15986)
भवांश्च मन्यते साधु यत्कुरूणां सुखोदयम्।
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥ 3-10-2(15987)
यदित्वहमनुग्राह्यः कौरव्येषु दया यदि।
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥ 3-10-3(15988)
व्यास उवाच. 3-10-4x(1799)
अयमायाति वै राजन्मैत्रेयो भगवानृषिः।
अन्वीक्ष्य पाण्डवान्भ्रातृनिहैवाऽस्मद्दिदृक्षया ॥ 3-10-4(15989)
एष दुर्योधनं पुत्रं तव राजन्महानृषिः।
अनुशास्ता यथान्यायं शमायास्य कुलस्य च ॥ 3-10-5(15990)
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया।
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा ॥ 3-10-6(15991)
वैशम्पायन उवाच। 3-10-7x(1800)
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत।
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥ 3-10-7(15992)
कृत्वाऽर्ध्याद्याः क्रियाः सर्वा विश्रान्तं मुनिसत्तमम्
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 3-10-8(15993)
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले।
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः । 3-10-9(15994)
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः।
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥ 3-10-10(15995)
मैत्रेय उवाच। 3-10-11x(1801)
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्।
यदृच्छया धर्मराजं दृष्ट्ववान्काम्यके वने ॥ 3-10-11(15996)
तं जटाजिनसंवीतं तपोवननिवासिनम्।
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥ 3-10-12(15997)
तत्राश्रौषं महाराज पुत्राणां तव विग्रहम्।
अनयं द्यूतरूपेण महाभयमुपस्थितम् ॥ 3-10-13(15998)
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ॥
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥ 3-10-14(15999)
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति।
यदन्योन्येन ते पुत्रा विरुध्यन्ते कथंचन ॥ 3-10-15(16000)
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्।
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥ 3-10-16(16001)
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन।
तेन न भ्राजसे राजंस्तापसानां समागमे ॥ 3-10-17(16002)
वैशम्पायन उवाच। 3-10-18x(1802)
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्।
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृपिः ॥ 3-10-18(16003)
मैत्रेय उवाच। 3-10-19x(1803)
दुर्योधन महाबाहो निबोध वदतां वर।
वचनं मे महाभाग ब्रुवतो यद्धितं तव ॥ 3-10-19(16004)
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः।
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥ 3-10-20(16005)
पाण्डवान्प्राप्य तान्रात्रौ किर्मीरो नाम राक्षसः।
अवृत्य मार्गं रौद्रात्मा तस्थौ गिरिवाचलः ॥ 3-10-21(16006)
तं भीमः समरस्लाघी बलेन बलिनां वरः।
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥ 3-10-22(16007)
पश्य दिग्विजये राजन्यथा भीमेन पातितः।
जरासन्धो महेष्वासो नागायुतबलो युधि ॥ 3-10-23(16008)
संबन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः।
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ॥ 3-10-24(16009)
सर्वे नागायुतप्राणा वज्रसंहनना दृढः।
सत्यव्रतधराः सर्वेसर्वे पुरुषमानिनः ॥ 3-10-25(16010)
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्।
हिडिम्बबकमुख्यानां किर्मीरस् च रक्षसः।
कस्तान्युधि समासीत जरामरणवान्नरः ॥ 3-10-26(16011)
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ।
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥ 3-10-27(16012)
वैशम्पायन उवाच। 3-10-28x(1804)
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशांपते।
ऊरुं करिकराकारं करेणाभिजघान तः ॥ 3-10-28(16013)
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्।
नकिंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः ॥ 3-10-29(16014)
तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्।
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥ 3-10-30(16015)
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः।
विधिना संप्रयुक्तश्च शापायास्य मनो दधे ॥ 3-10-31(16016)
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः।
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥ 3-10-32(16017)
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि।
तस्मादस्यातिमानस्य सद्यः फलमवाप्स्यसि ॥ 3-10-33(16018)
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्।
यत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली ॥ 3-10-34(16019)
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः।
प्रसादयामास मुनिं नैतदेवं भवेदिति ॥ 3-10-35(16020)
मैत्रेय उवाच। 3-10-36x(1805)
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा।
शायो न भविता तात विपरीते भविष्यति ॥ 3-10-36(16021)
वैशम्पायन उवाच। 3-10-37x(1806)
सविलक्षस्तु राजेन्द्रो दुर्योधनपिता तदा।
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥ 3-10-37(16022)
मैत्रेय उवाच। 3-10-38x(1807)
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः।
एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥ 3-10-38(16023)
वैशम्पायन उवाच। 3-10-39x(1808)
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्।
किर्मीरवधसंविग्नो भयं दुर्योधनो ययौ ॥ 3-10-39(16024)

॥ इतिश्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि दशमोऽध्यायः ॥ 10 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-10-5 अनुशास्ता अनुशासिष्यति ॥ 3-10-6 अक्रियायां अकरणे। कार्यस्य अवश्यकर्तव्यस्य ॥ 3-10-11 यदृच्छया दैवात् ॥ 3-10-15 औपयिकं योग्यम् ॥ 3-10-16 मेढीभूतः खलदामस्तम्भीभूतः। प्रग्रहे अनुग्रहे ॥ 3-10-18 व्यावृत् अभिमुखीभूयेत्यर्थः ॥ 3-10-22 पशुमारेण पशुमारणप्रकारेण ॥ 3-10-24 विक्रान्तयोधिनः विक्रान्ताश्च युद्धशीलाश्च ॥ 3-10-25 वज्रसंहननाः वज्रकायाः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.